वांछित मन्त्र चुनें

पव॑स्वेन्दो॒ पव॑मानो॒ महो॑भि॒: कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष । क्रीळ॑ञ्च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इन्द्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥

अंग्रेज़ी लिप्यंतरण

pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa | krīḻañ camvor ā viśa pūyamāna indraṁ te raso madiro mamattu ||

पद पाठ

पव॑स्व । इ॒न्दो॒ इति॑ । पव॑मानः । महः॑ऽभिः । कनि॑क्रदत् । परि॑ । वारा॑णि । अ॒र्ष॒ । क्रीळ॑न् । च॒म्वोः॑ । आ । वि॒श॒ । पू॒यमा॑नः । इन्द्र॑म् । ते॒ । रसः॑ । म॒दि॒रः । म॒म॒त्तु॒ ॥ ९.९६.२१

ऋग्वेद » मण्डल:9» सूक्त:96» मन्त्र:21 | अष्टक:7» अध्याय:4» वर्ग:10» मन्त्र:1 | मण्डल:9» अनुवाक:5» मन्त्र:21


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (महोभिः) महापुरुषों से (पवमानः) उपास्यमान आप (पवस्व) हमको पवित्र करें और (कनिक्रदत्) वैदिक वाणियों के द्वारा शब्दायमान होते हुए आप (वाराणि) श्रेष्ठ पुरुषों के प्रति (पर्य्यर्ष) प्राप्त हों और (पूयमानः) सबको पवित्र करते हुए (आविश) हमारे अन्तःकरण में आकर प्रविष्ट हों। हे परमात्मन् ! (ते) तुम्हारा (रसः) आनन्द (मदिरः) जो आह्लादित करनेवाला है, वह (इन्द्रं) कर्म्मयोगी को (ममत्तु) प्रसन्न करे ॥२१॥
भावार्थभाषाः - परमात्मा के आन्दाम्बुधि रस को केवल कर्म्मयोगी ही पान कर सकता है, आलसी निरुद्यमी लोग उक्त आनन्द के अधिकारी कदापि नहीं हो सकते ॥२१॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (महोभिः, पवमानः) श्रेष्ठजनैरुपास्यमानो भवान् (पवस्व) मां पावयतु (कनिक्रदत्) वेदवाग्भिः शब्दायमानो भवान् (वाराणि, परि, अर्ष) श्रेष्ठपुरुषान् लभतां (चम्वोः, क्रीळन्) ब्रह्माण्डे क्रीडां कुर्वन् (पूयमानः) सर्वान् पावयन् (आ, विश) मदन्तःकरणे निवसतु। हे परमात्मन् ! (ते, रसः) भवत आनन्दः (मदिरः) यः सर्वाह्लादकः स (इन्द्रं, ममत्तु) कर्मयोगिनं तर्पयतु ॥२१॥